International Journal For Multidisciplinary Research

E-ISSN: 2582-2160   •   Impact Factor: 9.24

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 8, Issue 5 (September-October 2026) Submit your research before last 3 days of October to publish your research paper in the issue of September-October.

श्रीजीवन्यायतीर्थप्रणीते ‘सारस्वतशतकम्’ इति चित्रकाव्ये कविकल्पितनवीनबन्धद्वयसमीक्षा

Author(s) Dilruba Khandakar
Country India
Abstract प्राचीनकालादारभ्य अत्याधुनिककालपर्यन्तं विविधवैचित्र्यैः मण्डितमिदं काव्यशास्त्रम्। संस्कृतालंकारशास्त्रे प्रायशो दृश्यते यच्चित्रकाव्यम् आलंकारिकैः तथा न समादृतं यथा समादृतमपरापरं पद्यकाव्यम्। अपि च, चित्रकाव्यमलंकारशास्त्रे अधमकाव्यरूपेण परिगण्यते। किन्तु चित्रकाव्येषु वर्ण्यविषयोपस्थापनाय कवीनां सुतरां प्रयासा दृश्यन्ते। अपरपक्षतः पाठकाः तच्चित्रकाव्यं पठित्वा चमत्कृतिम् अपि आस्वादयन्ति इति ध्रुवम्। श्रीजीवन्यायतीर्थः सारस्वतशतके विविधबन्धैः वैचित्र्यं प्रदर्शयति। अपि च, तत्र प्रतिपादितेषु विविधबन्धेषु ध्वनिवादस्य प्रतिध्वनिरपि श्रूयत इति तस्य काव्यस्य विशेषता।
चित्रकाव्ये विविधचित्रैः सह शब्दसन्निवेशकला निःसन्देहेन प्रशंसार्हा। इतोऽपि चित्रकाव्ये एकाक्षरबन्धस्य द्व्यक्षरबन्धस्य वा प्रयोगो यद्यपि काव्यस्य सुकुमारतां प्रायशः नाशयति, किन्तु तत्र शब्दप्रयोगस्य पाण्डित्यमपि नूनमेव स्वीकार्यम्। अतः अलंकारशास्त्रे चित्रकाव्यस्य महत्त्वं कीदृगस्तीति प्रतिपादयितुं तथा च आधुनिकसंस्कृतकाव्येषु श्रीजीवन्यायतीर्थस्य सारस्वतशतकस्य चित्रकाव्यत्वेन गुरुत्वं ख्यापयितुं प्रवृत्तोऽयं प्रबन्धः।
Keywords चित्रकाव्यम्, बन्धचित्रम्, महाकाव्यम्, कारयित्री प्रतिभा।
Field Arts
Published In Volume 6, Issue 5, September-October 2024
Published On 2024-09-24
DOI https://doi.org/10.36948/ijfmr.2024.v06i05.27666

Share this