International Journal For Multidisciplinary Research

E-ISSN: 2582-2160   •   Impact Factor: 9.24

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 8, Issue 5 (September-October 2026) Submit your research before last 3 days of October to publish your research paper in the issue of September-October.

प्राचीनभारतीयविद्याशाखानां जगद्धिताय अवदानम्

Author(s) Rahul Trivedi
Country India
Abstract भारतीयज्ञानपरम्परा सहस्रवर्षेभ्यः विस्तीर्णा विशिष्टा चास्ति । अयं ज्ञानसम्भारः मानवसमाजस्य समुचितविकासाय उपयुक्तः सिद्धः । प्राचीनकालादारभ्य भारतीयाः ऋषयः मानवजीवनस्य चारित्रिकम् आध्यात्मिकं सामाजिकं च उन्नयनं कर्तुं विविधैः ज्ञानविधिभिः दृष्टिकोणैश्च योगदानं कृतवन्तः । अयं ज्ञाननिधिः न केवलं भारतस्य, अपि तु समस्तविश्वस्य बौद्धिकं धनमस्ति ।
भारतीयसंस्कृतेरात्मा एव भारतीयज्ञानपरम्परा । प्राचीनभारते वेदेषु उपनिषत्सु दर्शनेषु च या जीवनदृष्टिः विवेचिता सा केवलं विषयगता नासीत्, किन्तु जीवनस्य परमलक्ष्यम् आत्मविकासं समाजोत्थानं च लक्ष्यीकृत्य उपदिष्टा । भारतीयमनीषिभिः युगानुगुणं विकसितानि दर्शनानि न केवलमाध्यात्मिकं मार्गदर्शनं कुर्वन्ति, अपि तु व्यावहारिकजीवनस्य विविधाङ्गेषु अपि पथप्रदर्शनं कुर्वन्ति । ऋषयः शिक्षायाः मूलरूपं गुरुकुलप्रणाल्याः माध्यमेन स्थापयामासुः । योगः शरीरमनसोः संतुलनं स्थापयति, आयुर्वेदः च रोगनिवारणं स्वास्थ्यरक्षणं च करोति । गणितखगोलविज्ञानयोः क्षेत्रे आर्यभट-भास्कराचार्य-ब्रह्मगुप्तादीनां योगदानमद्यापि प्रासङ्गिकं वर्तते ।
इदं शोधपत्रं दर्शयति यत् – भारतीयज्ञानपरम्परा केवलं तात्त्विकविचारणा नास्ति, अपि तु मानवसमाजस्य चतुर्मुखविकासस्य मूलाधारमपि आसीत् । एषा परम्परा न केवलं भारतवर्षस्य किन्तु समग्रमानवजातेः हिताय समर्पिता अस्ति । अतः इदं शोधपत्रमाधुनिकयुगे भारतीयज्ञानपरम्परायाः उपादेयतां, तस्याः वैज्ञानिकतां च प्रकाशयत् मानवविकासे अस्याः परम्परायाः अमूल्यं योगदानं प्रतिपादयति ।
Keywords भारतीयज्ञानपरम्परा, प्राचीनभारतीयविद्याशाखाः, संस्कृतशिक्षा, वेदाः, आयुर्वेदः, योगशास्त्रम्, भारतीयदर्शनम्, मानवविकासः ।
Published In Volume 8, Issue 5, September-October 2026
Published On 2026-10-01
DOI https://doi.org/10.36948/ijfmr.2026.v08i05.85865

Share this